Skip to content

Practice question

Question

प्रश्नानुसारं निर्देशान् पालयत :
निर्देशः अधोलिखितेषु गद्याशं पठित्वा प्रश्नानां विकल्पत्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत
कश्चन् महावृक्षः आसीत्। तत्र कश्चन् काकः पत्न्या सह वसति स्म। तस्य एव वृक्षस्य कोटरे कश्चन् कृष्णसर्पः अपि वसति स्म। यदा काकी प्रसूता भवति तदा कृष्णसर्पः तस्याः शावकान् खादति स्म। एतेन काकः काकी च महत् दुःखम् अनुभवतः स्म।
अतः एकदा काकः स्वमित्रस्य श्रृगालस्य समीपं गत्वा उक्तवान् "भो मित्र! सः कृष्णसर्पः कथञ्चित् वध्यः। भवान् कमपि उपायं विचारयतु" इति। श्रृगालः एकं उपायं चिन्तितवान्। तत् श्रुत्वा काकः बहु सन्तुष्टः। तदन्तरं काकः उड्डयनं कुर्वन् नगरम् आगतवान्। तत्र महाराजस्य प्रासादस्य सरोवरे अन्तः पुरस्त्रियः जलक्रीडायां मग्नाः आसन्। तासां वस्त्राणि आभरणानि च सरोवरस्य सोपानेषु स्थापितानि आसन्।
काकः तत्र गतवान्। एकं सुवर्णहारं स्वीकृत्य अरण्याभिमुखं प्रस्थितवान्। तत् दृष्ट्वा राजभटाः काकम् अनुसृतवन्तः। काकः अरण्यम् आगत्य महावृक्षस्य कोटरे तं हारं पातितवान्, स्वयं दूरं गतवान् च। राजभटाः तत्र आगतवन्तः। कोटरे ते हारं दृष्टवन्तः। तदा तत्र स्थितः कृष्णसर्पः कोपेन बहिः आगतवान्। राजभटाः दण्डप्रहारेण तं मारितवन्तः। हारं च नीतवन्तः। तदन्तरं काकः पत्न्या सह सुखेन जीवितवान्।
काकस्य मित्रं कः आसीत्?

Options

Choose one · Correct answer highlighted

Explanation

English: श्रृगालः is correct answer from passage, found in gadya context describing crow, farmer, or moral story. Hindi: श्रृगालः अनुच्छेद से सही उत्तर है जो गद्य में वर्णित कथा के आधार पर मिलता है।

Discussion

Comments

0 comments

No comments yet. Be the first to start the discussion.