Practice question
Question
प्रश्नानुसारं निर्देशान् पालयत :
निर्देशः अधाेलिखित गद्यांश पठित्वा प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेभ्यः समुचितम् उत्तरं चित्वा लिखत।
इह खलु पञ्चेन्द्रियाणि, पञ्चेन्द्रियद्रव्याणि, पञ्चेन्द्रियार्थाः च भवन्ति। तत्र चक्षुः श्रोत्रं घ्राणं जिह्वा त्वक् च इति पञ्चेन्द्रियाणि। पञ्चेन्द्रियद्रव्याणि खं वायुः ज्योतिः आपो भूः इति। पञ्चन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः। मनःपुरःसराणि च इन्द्रियाणि अर्थसंग्रहसमर्थानि भवन्ति। न इन्द्रियवशगः स्यात्। न चंचलं मनः अनुभ्रामयेत्।
गुरु - वृद्ध - आचार्यान् अर्चयेत्। मूर्ध - श्रोत्र - घ्राण - पाद - तैलनित्यः स्यात्। अतिथीनां पूजकः स्यात्। काले हित - मित - मधुरार्थवादी स्यात्। वश्यात्मा, महोत्साहः, विनयबुद्धिः, निर्भीकः, क्षमावान, सर्वप्राणिषु बन्धुभूतः स्यात्।
न अनृतं ब्रूयात्। न अतिब्रूयात्। न अन्यस्वम् आहरेत्। न वैरं रोचयेत्। न कुर्यात् पापम्। न पापेऽपि पापी स्यात्। न अन्यदोषान् ब्रूयात्। न अन्यरहस्यम् आगमयेत्। अधार्मिकैः न दुष्टैः सह आसीत्। न नासिकां कुष्णीयात्। न दन्तान् विघट्टयेत्। न भूमिं विलिखेत्। ने नखान् वादयेत्। न छिन्द्यात् तृणम्। न दुष्टयानानि आरोहेत्। न द्रुमम् आरोहेत्। न जलोग्रवेगम् अवगाहेत्।
न अदेशे, न अकाले, न कुत्सयन्, न प्रतिकूलोपहितम्, न पर्युषितम् अन्नम् खादेत्। न नक्तं दधि भुञ्जीत। न कञ्चिद् अवजानीयात्। न वेगान् धारयेत्। न अहंमानी स्यात्। न अभृतभृत्यो, नैकः सुखी, न सर्वविश्रम्भी न सर्वाभिशंकी स्यात्। न नियमं भिन्द्यात्।
न कार्यकालम् अतिपातयेत्। न अपरीक्षितम् अभिनिविशेत्। न च अतिदीर्घसूत्री स्यात्। न सिद्धौ उत्सेकं गच्छेत् ने असिद्धौ दैन्यम्।।
केन युक्तेन इन्द्रियाणि अर्थसंग्रहसमर्थानि भवन्ति?
Explanation
English: मनसा is correct answer from passage, found in gadya context describing crow, farmer, or moral story. Hindi: मनसा अनुच्छेद से सही उत्तर है जो गद्य में वर्णित कथा के आधार पर मिलता है।
Discussion
Comments
Please log in to join the discussion.
Login to commentNo comments yet. Be the first to start the discussion.